वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्
येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन रणे दत्तं सोऽयं शेते रणे हतः
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। भयं यो न विजानाति तस्येदं मानुषाद् भयम्
अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः
अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता राक्षसाश्च निपातिताः। एताः सममिदानीं ते वयमात्मा च पातितः
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली। न नः स्याद् व्यसनं घोरमिदं मूलहरं महत्
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्। राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम्
न कामकारः कामं वा तव राक्षसपुंगव। दैवं चेष्टयते सर्वं हतं दैवेन हन्यते
वानराणां विनाशोऽयं राक्षसानां च ते रणे। तव चैव महाबाहो दैवयोगादुपागतः
नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः। कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः
thumb|एकादशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकादशाधिकशततमः सर्गः ॥६-
तासां विलपमानानां तदा राक्षसयोषिताम्। ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्
ननु नाम महाबाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः
ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः। ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः