इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्
योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः
अनेन दत्तानि वनीपकेषु भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि
एषोऽहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात्
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव
thumb|दशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशाधिकशततमः सर्गः ॥६-
रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्
येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन रणे दत्तं सोऽयं शेते रणे हतः
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। भयं यो न विजानाति तस्येदं मानुषाद् भयम्
अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः
अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता राक्षसाश्च निपातिताः। एताः सममिदानीं ते वयमात्मा च पातितः
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली। न नः स्याद् व्यसनं घोरमिदं मूलहरं महत्
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः