स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः
thumb|नवाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवाधिकशततमः सर्गः ॥६-
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः
वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे
किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु
धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती
पराक्रमोत्साहविजृम्भितार्चि- र्निःश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि- र्निर्वापितो रामपयोधरेण
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः
वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः
नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्
योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः
अनेन दत्तानि वनीपकेषु भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि
एषोऽहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात्
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव
thumb|दशाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशाधिकशततमः सर्गः ॥६-
रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव