तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्। हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः
ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम्
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा
राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्
आविवेश महान् हर्षो देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः
thumb|नवाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवाधिकशततमः सर्गः ॥६-
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः
वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे
किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु
धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती
पराक्रमोत्साहविजृम्भितार्चि- र्निःश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि- र्निर्वापितो रामपयोधरेण
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः
वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः
नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे