तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः। वेदप्रोक्तेन विधिना संदधे कार्मुके बली
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तः शरं मर्मविदारणम्
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः। कृतान्त इव चावार्यो न्यपतद् रावणोरसि
स विसृष्टो महावेगः शरीरान्तकरः परः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः
रुधिराक्तः स वेगेन शरीरान्तकरः शरः। रावणस्य हरन् प्राणान् विवेश धरणीतलम्
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः। कृतकर्मा निभृतवत् स तूणीं पुनराविशत्
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्। निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः। पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्। हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः
ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम्
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा
राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्
आविवेश महान् हर्षो देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः
thumb|नवाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवाधिकशततमः सर्गः ॥६-
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः
वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे