गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। गगनं गगनाकारं सागरः सागरोपमः
रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्
ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः शरमाशीविषोपमम्
रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा
तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः। तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते
तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः। एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्
न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः
क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं नु तत् कारणं येन रावणे मन्दतेजसः
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे
तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि
देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत
नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्धं विराममुपगच्छति
दशरथसुतराक्षसेन्द्रयोस्तयो- र्जयमनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु
thumb|अष्टाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाधिकशततमः सर्गः ॥६-
अथ संस्मारयामास मातली राघवं तदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते
ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः। ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान्
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः
यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्। नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्। नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम्
वज्रसारं महानादं नानासमितिदारुणम्। सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्। नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्। वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः