मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे
प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततो बाणान् शतशोऽथ सहस्रशः
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान् रामरावणयोर्मृधे
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्
रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ
एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्। मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्
तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ
परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः
गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ
चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे
परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्
पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः
चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे
मुमोच निशितान् बाणान् राघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः
जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्
सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि। तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः
चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे। तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्
गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः
क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्