रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा
रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्। जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः
स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः। ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः
सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव। स रोषवशमापन्नः शरवर्षं ववर्ष ह
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः। ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः। तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह। गदाश्च परिघांश्चैव चक्राणि मुसलानि च
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्। मायाविहितमेतत् तु शस्त्रवर्षमपातयत्। सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्। तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत्
विमुच्य राघवरथं समन्ताद् वानरे बले। सायकैरन्तरिक्षं च चकार सुनिरन्तरम्
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे
प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततो बाणान् शतशोऽथ सहस्रशः
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान् रामरावणयोर्मृधे
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्
रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ
एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्। मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्
तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ
परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः
गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ
चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे
परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्
पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः
चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे
मुमोच निशितान् बाणान् राघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः
जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्
सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः