शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्। तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च
ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः
महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले। येन येन रथो याति तेन तेन प्रधावति
संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा
सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः
रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः
प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वरा घोरा विना जलधरोदयम्
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्
कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणा दारुणारुताः
जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च
एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे
रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः
निमित्तानीह सौम्यानि राघवः स्वजयाय वै। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम्
thumb|सप्ताधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्ताधिकशततमः सर्गः ॥६-
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा। सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्
ततो राक्षससैन्यं च हरीणां च महद्बलम्। प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत
सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम्
रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ
तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत्
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा
ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्
ते शरास्तमनासाद्य पुरंदररथध्वजम्। रथशक्तिं परामृश्य निपेतुर्धरणीतले
ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे