ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्
कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः
श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः
thumb|षट्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-
ततः प्रभाते विमले कृतकर्मा नराधिपः। विश्वामित्रं महात्मानमाजुहाव सराघवम्
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा। राघवौ च महात्मानौ तदा वाक्यमुवाच ह
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ। भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्
एवमुक्तः स धर्मात्मा जनकेन महात्मना। प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ। द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्। श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः। न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्। विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत्
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः। वरांगानि महार्हाणि धनुषा शातयामि वः
ततो विमनसः सर्वे देवा वै मुनिपुंगव। प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः