रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति
thumb|षडधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षडधिकशततमः सर्गः ॥६-
सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनम्
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्
ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्
रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महाध्वजम्
रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा
दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्। तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम्
शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्। स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः
उवाच मातलिं रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धमापतन्तं रथं रिपोः
यथापसव्यं पतता वेगेन महता पुनः। समरे हन्तुमात्मानं तथानेन कृता मतिः
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः। विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्। रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्
कामं न त्वं समाधेयः पुरंदररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये
परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिरुत्तमः
अपसव्यं ततः कुर्वन् रावणस्य महारथम्। चक्रसम्भूतरजसा रावणं व्यवधूनयत्
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत्
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्। जग्राह सुमहावेगमैन्द्रं युधि शरासनम्
शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्। तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च
ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः
महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले। येन येन रथो याति तेन तेन प्रधावति
संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा
सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः
रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः