देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च। दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्
स्थलनिम्नानि भूमेश्च समानि विषमाणि च। युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्
उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया
स्वेच्छया न मया वीर रथोऽयमपवाहितः। भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन। तत् करिष्याम्यहं वीर गतानृण्येन चेतसा
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्
रथं शीघ्रमिमं सूत राघवाभिमुखं नय। नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः। ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्। श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः। स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्
thumb|पञ्चाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चाधिकशततमः सर्गः ॥६-
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा
राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसे
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपं नित्यमक्षयं परमं शिवम्
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः
पितरो वसवः साध्या अश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः। अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः
नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः
जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः