अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्। क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम्
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते। कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्
इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः। राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत्
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे। रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः। प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः। भूय एवार्दयद् रामो रावणं राक्षसान्तकृत्
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्। हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्
यदा च शस्त्रं नारेभे न चकर्ष शरासनम्। नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना
क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च। मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्। शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत्
रथं च तस्याथ जवेन सारथि- र्निवार्य भीमं जलदस्वनं तदा। जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य
thumb|चतुरधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुरधिकशततमः सर्गः ॥६-
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्। भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्। मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते। सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः। रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः। यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना। अब्रवीद् रावणं सूतो हितं सानुनयं वचः
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः। न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया
मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः
श्रमं तवावगच्छामि महता रणकर्मणा। नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः। दीना घर्मपरिश्रान्ता गावो वर्षहता इव
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्