आपतन्तं शरौघेण वारयामास राघवः। उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः
निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्। रावणस्य महान् शूलः पतङ्गानिव पावकः
तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान्। सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत्
स तां मातलिना नीतां शक्तिं वासवसम्मताम्। जग्राह परमक्रुद्धो राघवो रघुनन्दनः
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना। नभः प्रज्वालयामास युगान्तोल्केव सप्रभा
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह। भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः
निर्बिभेद ततो बाणैर्हयानस्य महाजवान्। रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः
निर्बिभेदोरसि तदा रावणं निशितैः शरैः। राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः। राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ
स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः। जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम्
thumb|त्र्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्र्यधिकशततमः सर्गः ॥६-
स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो भृशम्। रावणः समरश्लाघी महाक्रोधमुपागमत्
स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान्। अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्। राघवं रावणो बाणैस्तटाकमिव पूरयन्
पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते
स शरैः शरजालानि वारयन् समरे स्थितः। गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः। निजघानोरसि क्रुद्धो राघवस्य महात्मनः
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः
शराभिघातसंरब्धः सोऽभिजग्राह सायकान्। काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः
ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ। शरान्धकारे समरे नोपलक्षयतां तदा
ततः क्रोधसमाविष्टो रामो दशरथात्मजः। उवाच रावणं वीरः प्रहस्य परुषं वचः
मम भार्या जनस्थानादज्ञानाद् राक्षसाधम। हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान्
मया विरहितां दीनां वर्तमानां महावने। वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे
स्त्रीषु शूर विनाथासु परदाराभिमर्शनम्। कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित। दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे
शूरेण धनदभ्रात्रा बलैः समुदितेन च। श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च। कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते। नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः
यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात्। भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः
दिष्ट्यासि मम मन्दात्मंश्चक्षुर्विषयमागतः। अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्