राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः। व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा। प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः। सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्। शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना। कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे। दशास्यो विंशतिभुजः प्रगृहीतशरासनः
अदृश्यत दशग्रीवो मैनाक इव पर्वतः। निरस्यमानो रामस्तु दशग्रीवेण रक्षसा
नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि। स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः
जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्। तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी
सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः। बभूव चापि क्षुभितः समुद्रः सरितां पतिः
खराश्च खरनिर्घोषा गगने परुषा घनाः। औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान्। वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम्
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः। ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः
ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्। नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः। प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः। देवा राममथोचुस्ते त्वं जयेति पुनः पुनः
एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः। प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्
वज्रसारं महानादं सर्वशत्रुनिबर्हणम्। शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम्
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्। अतिरौद्रमनासाद्यं कालेनापि दुरासदम्
त्रासनं सर्वभूतानां दारणं भेदनं तथा। प्रदीप्त इव रोषेण शूलं जग्राह रावणः
तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान्। अनीकैः समरे शूरै राक्षसैः परिवारितः
समुद्यम्य महाकायो ननाद युधि भैरवम्। संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन्
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा। प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः
अतिकायस्य नादेन तेन तस्य दुरात्मनः। सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे
स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्। विनद्य सुमहानादं रामं परुषमब्रवीत्
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति
रक्षसामद्य शूराणां निहतानां चमूमुखे। त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव। एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः
तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम्। अष्टघण्टं महानादं वियद्गतमशोभत
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्। ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान्