हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः
देवराजेन संदिष्टो रथमारुह्य मातलिः। अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्। शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा
आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना देव महेन्द्र इव दानवान्
इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च। आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्
तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्। रामस्य च महाबाहो रावणस्य च रक्षसः
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुनरेव निशाचरः
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः। अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः। दिशश्च संतताः सर्वा विदिशश्च समावृताः
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे। अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्
ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः
ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान्। सुपर्णरूपा रामस्य विशिखाः कामरूपिणः
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः
ततः शरसहस्रेण राममक्लिष्टकारिणम्। अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः। पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः। विषेदुर्देवगन्धर्वचारणा दानवैः सह
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः। व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा। प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः। सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्। शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना। कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे। दशास्यो विंशतिभुजः प्रगृहीतशरासनः
अदृश्यत दशग्रीवो मैनाक इव पर्वतः। निरस्यमानो रामस्तु दशग्रीवेण रक्षसा
नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि। स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः
जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्। तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी
सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः। बभूव चापि क्षुभितः समुद्रः सरितां पतिः