अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्
नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः
यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर
thumb|द्व्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥६-
लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः। संदधे परवीरघ्नो धनुरादाय वीर्यवान्
रावणाय शरान् घोरान् विससर्ज चमूमुखे। अथान्यं रथमास्थाय रावणो राक्षसाधिपः
अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्। दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः। आजघान महाशैलं धाराभिरिव तोयदः
दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः। अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः
भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः। न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः
ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम्। आहूय मातलिं शक्रो वचनं चेदमब्रवीत्
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्। आहूय भूतलं यात कुरु देवहितं महत्
इत्युक्तो देवराजेन मातलिर्देवसारथिः। प्रणम्य शिरसा देवं ततो वचनमब्रवीत्
शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्। ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः। तरुणादित्यसंकाशो वैदूर्यमयकूबरः। सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः
देवराजेन संदिष्टो रथमारुह्य मातलिः। अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्। शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा
आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना देव महेन्द्र इव दानवान्
इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च। आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्
तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्। रामस्य च महाबाहो रावणस्य च रक्षसः
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुनरेव निशाचरः