स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः
मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्
विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुलः
ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावन्नाशे देव महामुनिः
तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्
देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च
ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्
कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः