विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः
समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीवकरणीं वीर संधानीं च महौषधीम्
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्। चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्
अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः
फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः
समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया
एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्
नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः
यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर
thumb|द्व्यधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥६-