तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्। त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः
स कीर्यमाणः शरजालवृष्टिभि- र्महात्मना दीप्तधनुष्मतार्दितः। भयात् प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः
thumb|एकाधिकशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकाधिकशततमः सर्गः ॥६-
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्
एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः
अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः
परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु
विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः
यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः
देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्थं नावभाषसे
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च
विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्
आश्वासयन्नुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते