लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमक्रुद्धश्चिक्षेप च ननाद च
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना। शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः
ततो रावणवेगेन सुदूरमवगाढया। शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। बभूव संरब्धतरो युगान्त इव पावकः
न विषादस्य कालोऽयमिति संचिन्त्य राघवः। चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः। सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे। लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्
तामपि प्रहितां शक्तिं रावणेन बलीयसा। यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्। अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः। पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः। कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम्
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः। अरावणमरामं वा जगद् द्रक्ष्यथ वानराः
राज्यनाशं वने वासं दण्डके परिधावनम्। वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः। अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे
यदर्थं वानरं सैन्यं समानीतमिदं मया। सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे। यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः। चक्षुर्विषयमागत्य नायं जीवितुमर्हति
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः। यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः
सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः। आसीनाः पर्वताग्रेषु ममेदं रावणस्य च
अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे। त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः। सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति। समागम्य सदा लोके यथा युद्धं प्रवर्तितम्
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः। आजघान रणे रामो दशग्रीवं समाहितः
तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः। अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्। वराणां च शराणां च बभूव तुमुलः स्वनः
विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले