सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
ततः सम्भाविततरां कालेनापि दुरासदाम्। जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा
सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत्
कीर्यमाणः शरौघेण विसृष्टेन महात्मना। न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः। विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा। मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्। मयेन मायाविहिताममोघां शत्रुघातिनीम्
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमक्रुद्धश्चिक्षेप च ननाद च
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना। शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः
ततो रावणवेगेन सुदूरमवगाढया। शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। बभूव संरब्धतरो युगान्त इव पावकः
न विषादस्य कालोऽयमिति संचिन्त्य राघवः। चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः। सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे। लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्
तामपि प्रहितां शक्तिं रावणेन बलीयसा। यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्। अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः। पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः। कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम्
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः। अरावणमरामं वा जगद् द्रक्ष्यथ वानराः
राज्यनाशं वने वासं दण्डके परिधावनम्। वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः। अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे