विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान्। ते रावणशरा घोरा राघवास्त्रसमाहताः
विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः। तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम्
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद् रावणबाहुनिःसृतम्। मुदान्वितो दाशरथिर्महात्मा विनेदुरुच्चैर्मुदिताः कपीश्वराः
thumb|शततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे शततमः सर्गः ॥६-
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः। उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः। जघान परमास्त्रेण गान्धर्वेण महाद्युतिः
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च। कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः
तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः। पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः। आयुधानि च चित्राणि रावणस्य चमूमुखे
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः। रावणेन महातेजा न प्राकम्पत राघवः
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः। राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली। लक्ष्मणः सायकान् सप्त जग्राह परवीरहा
तैः सायकैर्महावेगै रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्। लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्। जघानाप्लुत्य गदया रावणस्य विभीषणः
हताश्वात् तु तदा वेगादवप्लुत्य महारथात्। कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः
ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव। विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। अथोदतिष्ठत् संनादो वानराणां महारणे
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
ततः सम्भाविततरां कालेनापि दुरासदाम्। जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा
सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत्