पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्। ततो रामो महातेजाः सौमित्रिसहितो बली
वानरांश्च रणे भग्नानापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्
विस्फारयितुमारेभे ततः स धनुरुत्तमम्। महावेगं महानादं निर्भिन्दन्निव मेदिनीम्
रावणस्य च बाणौघै रामविस्फारितेन च। शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिसूर्ययोः
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः। मुमोच धनुरायम्य शरानग्निशिखोपमान्
तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता। बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत्
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः। आससाद रणे रामं स्थितं शैलमिवापरम्
स राघवं समासाद्य क्रोधसंरक्तलोचनः। व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः
शरधारास्ततो रामो रावणस्य धनुश्च्युताः। दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्
ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः। दीप्यमानान् महाघोराञ्छरानाशीविषोपमान्
राघवो रावणं तूर्णं रावणो राघवं तथा। अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्। बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः। रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः
सततं विविधैर्बाणैर्बभूव गगनं तदा। घनैरिवातपापाये विद्युन्मालासमाकुलैः
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः। महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः
शरान्धकारमाकाशं चक्रतुः परमं तदा। गतेऽस्तं तपने चापि महामेघाविवोत्थितौ
तयोरभून्महायुद्धमन्योन्यवधकांक्षिणोः। अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव
उभौ हि परमेष्वासावुभौ युद्धविशारदौ। उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः। ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव
ततः संसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्। शिरसाधारयद् रामो न व्यथामभ्यपद्यत
अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन्। शरान् भूयः समादाय रामः क्रोधसमन्वितः
मुमोच च महातेजाश्चापमायम्य वीर्यवान्। तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः
ते महामेघसंकाशे कवचे पतिताः शराः। अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्। ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः। श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः। आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः
सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि। गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा