महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः। स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः
करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसारमयं दृढम्
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्
अङ्गदो मोक्षयामास सरोषः स परश्वधम्। स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः। राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महामृधे
पफाल हृदयं चास्य स पपात हतो भुवि। तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे
अभवच्च महान् क्रोधः समरे रावणस्य तु। वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्। सहेन्द्रेणेव देवानां नादः समभवन्महान्
अथेन्द्रशत्रुस्त्रिदशालयानां वनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे
thumb|एकोनशततमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनशततमः सर्गः ॥६-
महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः। तस्मिंश्च निहते वीरे विरूपाक्षे महाबले
आविवेश महान् क्रोधो रावणं तु महामृधे। सूतं संचोदयामास वाक्यं चेदमुवाच ह
निहतानाममात्यानां रुद्धस्य नगरस्य च। दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्। प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः
द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः। हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः
स दिशो दश घोषेण रथस्यातिरथो महान्। नादयन् प्रययौ तूर्णं राघवं चाभ्यधावत
पूरिता तेन शब्देन सनदीगिरिकानना। संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा
तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्। निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः
उत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः। नहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम्
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः। दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्। स ददर्श ततो रामं तिष्ठन्तमपराजितम्
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा। आलिखन्तमिवाकाशमवष्टभ्य महद् धनुः
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्। ततो रामो महातेजाः सौमित्रिसहितो बली
वानरांश्च रणे भग्नानापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्
विस्फारयितुमारेभे ततः स धनुरुत्तमम्। महावेगं महानादं निर्भिन्दन्निव मेदिनीम्
रावणस्य च बाणौघै रामविस्फारितेन च। शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिसूर्ययोः