राक्षसश्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह। जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ
स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खड्गं पातयामास दुर्मतिः
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपगतं शिरः
निकृत्तशिरसस्तस्य पतितस्य महीतले। तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै- र्हरुषसमाकुलितैर्निरीक्ष्यमाणः
thumb|अष्टनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टनवतितमः सर्गः ॥६-
महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः
पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्। तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः
विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्
वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि। तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्। मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत। जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः। गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः। तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्। द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत्
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः। स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः
करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसारमयं दृढम्
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्