तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत
अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः
सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं कोपं संतापमात्मनः
तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः
कोपेन च महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः
तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः
नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम्
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्
स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्। तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः
मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्
विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते