गदापरिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः। ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः
गदां तां सुमहाघोरामापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे
आजघान गदां तस्य परिघेण हरीश्वरः। पपात तरसा भिन्नः परिघस्तस्य भूतले
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्। भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः। तलैश्चान्योन्यमासाद्य पेततुश्च महीतले
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्। भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ। आजहार तदा खड्गमदूरपरिवर्तिनम्
राक्षसश्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह। जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ
स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खड्गं पातयामास दुर्मतिः
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपगतं शिरः
निकृत्तशिरसस्तस्य पतितस्य महीतले। तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै- र्हरुषसमाकुलितैर्निरीक्ष्यमाणः
thumb|अष्टनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टनवतितमः सर्गः ॥६-
महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः
पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्। तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः
विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्
वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि। तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्