मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे
कवचं पातयामास पद्भ्यामभिहतोऽपतत्। स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्
तलप्रहारमशनेः समानं भीमनिःस्वनम्। तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्
नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्। ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः
ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्। महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ
पपात रुधिरक्लिन्नः शोणितं हि समुद्गिरन्। स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतुश्च भीमौ महार्णवौ द्वाविव भिन्नसेतू
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन। बलं समेतं कपिराक्षसाना- मुद्वृत्तगङ्गाप्रतिमं बभूव
thumb|सप्तनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तनवतितमः सर्गः ॥६-
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे। सरसीव महाघर्मे सूपक्षीणे बभूवतुः
स्वबलस्य तु घातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः। बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्
उवाच च समीपस्थं महोदरमनन्तरम्। अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्। भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्
ततः स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः। चिच्छेद पाणिपादोरु वानराणां महाहवे
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्। दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्। अभिदुद्राव सुग्रीवो महोदरमनन्तरम्
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्। चिक्षेप च महातेजास्तद्वधाय हरीश्वरः
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः। सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा
शरैश्च विददारैनं शूरः परबलार्दनः। स ददर्श ततः क्रुद्धः परिघं पतितं भुवि
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघेणोग्रवेगेन जघानास्य हयोत्तमान्
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्। गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः