ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः
तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकार कदनं महत्
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते
thumb|षण्णवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥६-
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा
रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः
प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः
पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्
ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्
ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह। अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः। विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्
स तं द्विपमथारुह्य विरूपाक्षो महाबलः। ननर्द भीमनिर्ह्रादं वानरानभ्यधावत
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे। स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोश च महाक्रोधो वधे चास्य मनो दधे
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्
स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद् धनुर्मात्रं निषसाद ननाद च
गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्। राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्