आगतो रक्षसां राजा छत्रचामरसंयुतः। सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः। योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः
तेन नादेन महता पृथिवी समकम्पत। तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्
रावणस्तु महाबाहुः सचिवैः परिवारितः। आजगाम महातेजा जयाय विजयं प्रति
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः
ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः। ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः
नयनं चास्फुरद् वामं वामो बाहुरकम्पत। विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः
तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकार कदनं महत्
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते
thumb|षण्णवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥६-
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा
रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः
प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः
पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्
ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्
ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव