कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः। बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे। चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः। नदन्तो भीमवदना नानाप्रहरणैर्भुजैः
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः। शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः। भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया। रथानां नियुतं साग्रं नागानां नियुतत्रयम्
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च। पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम्। एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम्
दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम्। नानायुधसमाकीर्णं किङ्किणीजालसंयुतम्
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्। जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम्
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः। तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्। द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्। आरुरोह तदा भीमं दीप्यमानं स्वतेजसा
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः। मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम्
आगतो रक्षसां राजा छत्रचामरसंयुतः। सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः। योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः
तेन नादेन महता पृथिवी समकम्पत। तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्
रावणस्तु महाबाहुः सचिवैः परिवारितः। आजगाम महातेजा जयाय विजयं प्रति
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः
ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः। ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः
नयनं चास्फुरद् वामं वामो बाहुरकम्पत। विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः
तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्