अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः। भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः। वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः
प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत्। उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा
एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा। भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान्
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः। अयं निष्टानको घोरः शोकेन समभिप्लुतः
तं न पश्यामहे लोके यो नः शरणदो भवेत्। राघवेणोपसृष्टानां कालेनेव युगक्षये
नास्ति नः शरणं किंचिद् भये महति तिष्ठताम्। दावाग्निवेष्टितानां हि करेणूनां यथा वने
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः। विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम्
thumb|पञ्चनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चनवतितमः सर्गः ॥६-
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले। रावणः करुणं शब्दं शुश्राव परिदेवितम्
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः। राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान्
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः। क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः। चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः। कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः
प्रतिपूज्य यथान्यायं रावणं ते महारथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः। महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम्
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा। करिष्यामि प्रतीकारमद्य शत्रुवधादहम्
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः। प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः
अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन वधिष्यामि पतत्त्रिणा
अद्य वानरसैन्यानि रथेन पवनौजसा। धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्। अद्य यूथतटाकानि गजवत् प्रमथाम्यहम्
सशरैरद्य वदनैः संख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्
हतो भ्राता च येषां वै येषां च तनयो हतः। वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम्
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः। करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे। सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः