वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्। हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा। शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्
हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम्
जघान बलिनं रामः सहस्रनयनात्मजम्। वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम्
ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः। सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम्
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते
विभीषणवचः कुर्याद् यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा। प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते
मम पुत्रो मम भ्राता मम भर्ता रणे हतः। इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले
रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः। रणे रामेण शूरेण हताश्चापि पदातयः
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः। हन्ति नो रामरूपेण यदि वा स्वयमन्तकः
हतप्रवीरा रामेण निराशा जीविते वयम्। अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे
रामहस्ताद् दशग्रीवः शूरो दत्तमहावरः। इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। उपसृष्टं परित्रातुं शक्ता रामेण संयुगे
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे। कथयन्ति हि रामेण रावणस्य निबर्हणम्
पितामहेन प्रीतेन देवदानवराक्षसैः। रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम्
तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्। जीवितान्तकरं घोरं रक्षसां रावणस्य च
पीड्यमानास्तु बलिना वरदानेन रक्षसा। दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्
देवतानां हितार्थाय महात्मा वै पितामहः। उवाच देवतास्तुष्ट इदं सर्वा महद्वचः
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः। भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः। वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः
प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत्। उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा
एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा। भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान्
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः। अयं निष्टानको घोरः शोकेन समभिप्लुतः
तं न पश्यामहे लोके यो नः शरणदो भवेत्। राघवेणोपसृष्टानां कालेनेव युगक्षये
नास्ति नः शरणं किंचिद् भये महति तिष्ठताम्। दावाग्निवेष्टितानां हि करेणूनां यथा वने
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः। विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम्
thumb|पञ्चनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चनवतितमः सर्गः ॥६-