प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः
एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु
न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः
अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्
दिवसस्याष्टभागेन शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम्
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः
हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम्। आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य तत् कर्म समपूजयन्
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरम्
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च। एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा
निहत्य तां राक्षसराजवाहिनीं रामस्तदा शक्रसमो महात्मा। अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः
thumb|चतुर्नवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्नवतितमः सर्गः ॥६-
तानि नागसहस्राणि सारोहाणि च वाजिनाम्। रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः
राक्षसानां सहस्राणि गदापरिघयोधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्
निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः। राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कंदर्पसमरूपिणम्
सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी
जनस्यास्याल्पभाग्यत्वाद् वलिनी श्वेतमूर्धजा। अकार्यमपहास्यं च सर्वलोकविगर्हितम्
राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्
तन्निमित्तमिदं वैरं रावणेन कृतं महत्। वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैरमक्षयं राघवेण च