सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे। भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्। शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामो महाभीमः सूर्यस्योदयनं प्रति
रक्षसां वानराणां च तुमुलः समपद्यत। ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः। एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः
रक्षसां वानराणां च शान्तं शोणितविस्रवैः। मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः। ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः
ध्वजवर्मरथानश्वान् नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे
केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः। रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः। अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा
तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः
राक्षसैर्वध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्
ततो रामो महातेजा धनुरादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे। नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना
कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकराणि ते
चालयन्तं महासैन्यं विधमन्तं महारथान्। ददृशुस्ते न वै रामं वातं वनगतं यथा
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः
एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु
न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः
अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्