मन्निमित्तमनार्येण समरेऽद्य निपातितौ। भैरवो हि महान् नादो राक्षसानां श्रुतो मया
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्। अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ। विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः
हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया। यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती। मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि। सा हि जन्म च बाल्यं च यौवनं च महात्मनः
धर्मकार्याणि रूपं च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना
अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति। धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्
यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते। इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्
रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्। एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः
सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्। निवार्यमाणः सचिवैरिदं वचनमब्रवीत्
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज। हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च
वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा। स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव। तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी। कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः। हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्
स तद् दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः
thumb|त्रिनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिनवतितमः सर्गः ॥६-
स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे। भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्। शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामो महाभीमः सूर्यस्योदयनं प्रति
रक्षसां वानराणां च तुमुलः समपद्यत। ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः। एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः
रक्षसां वानराणां च शान्तं शोणितविस्रवैः। मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः। ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः