लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः। बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः
त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः। विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि
तेषां संजल्पमानानामशोकवनिकां गताम्। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता। ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्
तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्। यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्
वधिष्यति सनाथां मामनाथामिव दुर्मतिः। बहुशश्चोदयामास भर्तारं मामनुव्रताम्
भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया। सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः
क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः। अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ
मन्निमित्तमनार्येण समरेऽद्य निपातितौ। भैरवो हि महान् नादो राक्षसानां श्रुतो मया
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्। अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ। विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः
हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया। यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती। मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि। सा हि जन्म च बाल्यं च यौवनं च महात्मनः
धर्मकार्याणि रूपं च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना
अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति। धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्
यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते। इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्
रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्। एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः
सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्। निवार्यमाणः सचिवैरिदं वचनमब्रवीत्
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज। हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च
वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा। स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव। तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी। कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः। हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्
स तद् दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः
thumb|त्रिनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिनवतितमः सर्गः ॥६-
स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः