यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्। देवासुरविमर्देषु मम दत्तं स्वयंभुवा
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम। रामलक्ष्मणयोरेव वधाय परमाहवे
स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः। दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान्
मायया मम वत्सेन वञ्चनार्थं वनौकसाम्। किंचिदेव हतं तत्र सीतेयमिति दर्शितम्
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः। वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्। उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः। रावणः पुत्रशोकेन भृशमाकुलचेतनः
संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली। व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः
ऊचुश्चान्योन्यमालिङ्ग्य संक्रुद्धं प्रेक्ष्य राक्षसम्। अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः। बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः
त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः। विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि
तेषां संजल्पमानानामशोकवनिकां गताम्। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता। ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्
तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्। यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्
वधिष्यति सनाथां मामनाथामिव दुर्मतिः। बहुशश्चोदयामास भर्तारं मामनुव्रताम्
भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया। सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः
क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः। अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ
मन्निमित्तमनार्येण समरेऽद्य निपातितौ। भैरवो हि महान् नादो राक्षसानां श्रुतो मया
बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्। अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ। विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः
हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया। यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती। मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि। सा हि जन्म च बाल्यं च यौवनं च महात्मनः
धर्मकार्याणि रूपं च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना
अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति। धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्
यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते। इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्
रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्। एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः