कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्
तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः
उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्। घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः
शिशिरे सलिलेशायी रात्र्यहानि तपोधनः। एवं वर्षसहस्रं हि तपो घोरमुपागमत्
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ। संतापः सुमहानासीत् सुराणां वासवस्य च
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः। उवाचात्महितं वाक्यमहितं कौशिकस्य च
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्
अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः
ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि। एवमुक्तस्तया राम सभयं भीतया तदा
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता