युद्धे हतो महाराज लक्ष्मणेन तवात्मजः। विभीषणसहायेन मिषतां नो महाद्युतिः
शूरः शूरेण संगम्य संयुगेष्वपराजितः। लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्
गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम्। स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्
घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्। उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः
पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः। हा राक्षसचमूमुख्य मम वत्स महाबल
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः। ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि। अद्य वैवस्वतो राजा भूयो बहुमतो मम
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा। एष पन्थाः सुयोधानां सर्वामरगणेष्वपि। यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति
अद्य देवगणाः सर्वे लोकपाला महर्षयः। हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना। एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्। करेणुसङ्घस्य यथा निनादं गिरिगह्वरे
यौवराज्यं च लङ्कां च रक्षांसि च परंतप। मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः
मम नाम त्वया वीर गतस्य यमसादनम्। प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे। मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः
एवमादिविलापार्तं रावणं राक्षसाधिपम्। आविवेश महान् कोपः पुत्रव्यसनसम्भवः
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः। दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः
ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत। युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः
कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन्। उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद् वधम्
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च। रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः
घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम्। बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम्
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः। यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत। तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्। वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः। अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे
मया वर्षसहस्राणि चरित्वा परमं तपः। तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः। नासुरेभ्यो न देवेभ्यो भयं मम कदाचन
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्। देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः
तेन मामद्य संयुक्तं रथस्थमिह संयुगे। प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः