ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च। तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा
निष्टनन्निव चागत्य राघवाय महात्मने। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः
श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्। प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह
साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम्। रावणेर्हि विनाशेन जितमित्युपधारय
स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम्। लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान्
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्। भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत
शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम्। रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम्
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्। उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः
कृतं परमकल्याणं कर्म दुष्करकर्मणा। अद्य मन्ये हते पुत्रे रावणं निहतं युधि
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः। विभीषणहनूमद्भ्यां कृतं कर्म महद् रणे
अहोरात्रैस्त्रिभिर्वीरः कथंचिद् विनिपातितः। निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः
बलव्यूहेन महता निर्यास्यति हि रावणः। बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्। बलेनावृत्य महता निहनिष्यामि दुर्जयम्
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः। रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्
विशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः। यथा भवति सुस्वस्थस्तथा त्वं समुपाचर
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः। ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम्
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा। तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिनस्त्वया
एवमुक्तः स रामेण महात्मा हरियूथपः। लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्
स तस्य गन्धमाघ्राय विशल्यः समपद्यत। तदा निर्वेदनश्चैव संरूढव्रण एव च
विभीषणमुखानां च सुहृदां राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सामकरोत् तदा
ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः। सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः
तदैव रामः प्लवगाधिपस्तथा विभीषणश्चर्क्षपतिश्च वीर्यवान्। अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा। बभूव हृष्टो युधि वानरेन्द्रो निशम्य तं शक्रजितं निपातितम्
thumb|द्विनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥६-
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्। आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः