दुरावारं दुर्विषहं राक्षसानां भयावहम्। आशीविषविषप्रख्यं देवसंघैः समर्चितम्
येन शक्रो महातेजा दानवानजयत् प्रभुः। पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः
अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्। शरश्रेष्ठं धनुश्रेष्ठे विकर्षन्निदमब्रवीत्
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः। धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम्
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति। ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्। प्रमथ्येन्द्रजितः कायात् पातयामास भूतले
तद् राक्षसतनूजस्य भिन्नस्कन्धं शिरो महत्। तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्
हतः स निपपाताथ धरण्यां रावणात्मजः। कवची सशिरस्त्राणो विप्रविद्धशरासनः
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः। हृष्यन्ते निहते तस्मिन् देवा वृत्रवधे यथा
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्। जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसामपि
पतितं समभिज्ञाय राक्षसी सा महाचमूः। वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः। लङ्कामभिमुखाः सस्रुर्भ्रष्टसंज्ञाः प्रधाविताः
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः। त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान्
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः। समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः
हतमिन्द्रजितं दृष्ट्वा शयानं च रणक्षितौ। राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः। तथा तस्मिन् निपतिते राक्षसास्ते गता दिशः
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः। बभूव स महाबाहुर्व्यपास्तगतजीवितः
प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान्। बभूव लोकः पतिते राक्षसेन्द्रसुते तदा
हर्षं च शक्रो भगवान् सह सर्वैर्महर्षिभिः। जगाम निहते तस्मिन् राक्षसे पापकर्मणि
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः। नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः
ववर्षुः पुष्पवर्षाणि तदद्भुतमिवाभवत्। प्रशशाम हते तस्मिन् राक्षसे क्रूरकर्मणि
शुद्धा आपो नभश्चैव जहृषुर्देवदानवाः। आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे
ऊचुश्च सहितास्तुष्टा देवगन्धर्वदानवाः। विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति
ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः। तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम्
क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः। लक्ष्मणो जयतीत्येव वाक्यं विश्रावयंस्तदा
अन्योन्यं च समाश्लिष्य हरयो हृष्टमानसाः। चक्रुरुच्चावचगुणा राघवाश्रयसत्कथाः
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म। परममुपलभन्मनःप्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः
thumb|एकनवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकनवतितमः सर्गः ॥६-
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः। बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे