लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ। अन्योन्यं जघ्नतुर्वीरौ विशिखैर्भीमविक्रमौ
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ। रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ। घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये
ततः समरकोपेन संयुतो रावणात्मजः। विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे
अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्। एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान्
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्। विभीषणो महातेजा रावणेः स दुरात्मनः
स हताश्वादवप्लुत्य रथान्निहतसारथेः। अथ शक्तिं महातेजाः पितृव्याय मुमोच ह
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः। चिच्छेद निशितैर्बाणैर्दशधापातयद् भुवि
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः। वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्
ते तस्य कायं भित्त्वा तु रुक्मपुङ्खा निमित्तगाः। बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे। उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
तं समीक्ष्य महातेजा महेषुं तेन संहितम्। लक्ष्मणोऽप्याददे बाणमन्यद् भीमपराक्रमः
कुबेरेण स्वयं स्वप्ने यद् दत्तममितात्मना। दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः
तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः। विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः
ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ। विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ। मुखेन मुखमाहत्य संनिपेततुरोजसा
संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः। सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत्
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च। संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि। व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे। रौद्रं महेन्द्रजिद् युद्धेऽप्यसृजद् युधि निष्ठितः
तेन तद्विहितं शस्त्रं वारुणं परमाद्भुतम्। ततः क्रुद्धो महातेजा इन्द्रजित् समितिंजयः। आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव
सौरेणास्त्रेण तद् वीरो लक्ष्मणः पर्यवारयत्। अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः
आददे निशितं बाणमासुरं शत्रुदारणम्। तस्माच्चापाद् विनिष्पेतुर्भास्वराः कूटमुद्गराः
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः। तद् दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रमथासुरम्
अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम्। माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत्
तयोः समभवद् युद्धमद्भुतं रोमहर्षणम्। गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्। भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ
ऋषयः पितरो देवा गन्धर्वगरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे
अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः। हुताशनसमस्पर्शं रावणात्मजदारणम्
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्। सुवर्णविकृतं वीरः शरीरान्तकरं शरम्