सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान्
तानप्राप्तान् शितैर्बाणैश्चिच्छेद परवीरहा। सारथेरस्य च रणे रथिनो रथसत्तमः
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा। असूतास्ते हयास्तत्र रथमूहुरविक्लवाः
मण्डलान्यभिधावन्ति तदद्भुतमिवाभवत्। अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः
प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे। अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम्। ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः। विलयं जग्मुरागत्य कवचं काञ्चनप्रभम्
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः। ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्
अविध्यत् परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्। तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः। स तथाप्यर्दितो बाणै राक्षसेन तदा मृधे
तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः। विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ। अन्योन्यं जघ्नतुर्वीरौ विशिखैर्भीमविक्रमौ
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ। रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ। घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये
ततः समरकोपेन संयुतो रावणात्मजः। विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे
अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्। एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान्
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्। विभीषणो महातेजा रावणेः स दुरात्मनः
स हताश्वादवप्लुत्य रथान्निहतसारथेः। अथ शक्तिं महातेजाः पितृव्याय मुमोच ह
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः। चिच्छेद निशितैर्बाणैर्दशधापातयद् भुवि
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः। वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्
ते तस्य कायं भित्त्वा तु रुक्मपुङ्खा निमित्तगाः। बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे। उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
तं समीक्ष्य महातेजा महेषुं तेन संहितम्। लक्ष्मणोऽप्याददे बाणमन्यद् भीमपराक्रमः
कुबेरेण स्वयं स्वप्ने यद् दत्तममितात्मना। दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः
तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः। विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः
ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ। विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ। मुखेन मुखमाहत्य संनिपेततुरोजसा
संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः। सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत्
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च। संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि। व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे। रौद्रं महेन्द्रजिद् युद्धेऽप्यसृजद् युधि निष्ठितः