राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर
तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः। जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः
सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च
thumb|त्रिषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः। ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्। विश्वामित्रो महातेजा भूयस्तेपे महत् तपः
ततः कालेन महता मेनका परमाप्सराः। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे
तां ददर्श महातेजा मेनकां कुशिकात्मजः। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्
तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः
उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः