ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्। पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः
स हताश्वादवप्लुत्य रथान्मथितसारथिः। शरवर्षेण सौमित्रिमभ्यधावत रावणिः
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निहतैर्हयोत्तमैः। सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्व्यदारयत्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः
thumb|नवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवतितमः सर्गः ॥६-
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः। इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः। स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत्
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै। अहं तु रथमास्थाय आगमिष्यामि संयुगे
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः। न युध्येयुर्महात्मानः प्रविष्टे नगरं मयि
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा
स रथं भूषयित्वाथ रुचिरं हेमभूषितम्। प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणिः समितिंजयः
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगराद् वीरः कृतान्तबलचोदितः
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परमौजसा। अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम्
ततो रथस्थमालोक्य सौमित्री रावणात्मजम्। वानराश्च महावीर्या राक्षसश्च विभीषणः
विस्मयं परमं जग्मुर्लाघवात् तस्य धीमतः। रावणिश्चापि संक्रुद्धो रणे वानरयूथपान्
पातयामास बाणौघैः शतशोऽथ सहस्रशः। स मण्डलीकृतधनू रावणिः समितिंजयः
हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः। ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः। ततः समरकोपेन ज्वलितो रघुनन्दनः। चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम्
सोऽन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव। तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत
अथैनं छिन्नधन्वानमाशीविषविषोपमैः। विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः
ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः। निपेतुर्धरणीं बाणा रक्ता इव महोरगाः
स च्छिन्नधन्वा रुधिरं वमन् वक्त्रेण रावणिः। जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम्
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः। ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः। आवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम्
संदर्शयामास तदा रावणिं रघुनन्दनः। असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत्
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे। अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्। राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत्