महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत्। स यन्तरि महातेजा हते मन्दोदरीसुतः
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्। तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान्
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत्। अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन्
ततः प्रमाथी रभसः शरभो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः। चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत
ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्। पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः
स हताश्वादवप्लुत्य रथान्मथितसारथिः। शरवर्षेण सौमित्रिमभ्यधावत रावणिः
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निहतैर्हयोत्तमैः। सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्व्यदारयत्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः
thumb|नवतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवतितमः सर्गः ॥६-
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः। इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः। स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत्
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै। अहं तु रथमास्थाय आगमिष्यामि संयुगे
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः। न युध्येयुर्महात्मानः प्रविष्टे नगरं मयि
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा
स रथं भूषयित्वाथ रुचिरं हेमभूषितम्। प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणिः समितिंजयः
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगराद् वीरः कृतान्तबलचोदितः
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परमौजसा। अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम्
ततो रथस्थमालोक्य सौमित्री रावणात्मजम्। वानराश्च महावीर्या राक्षसश्च विभीषणः
विस्मयं परमं जग्मुर्लाघवात् तस्य धीमतः। रावणिश्चापि संक्रुद्धो रणे वानरयूथपान्
पातयामास बाणौघैः शतशोऽथ सहस्रशः। स मण्डलीकृतधनू रावणिः समितिंजयः