जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः। तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान्
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः। परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। देवासुराणां क्रुद्धानां यथा भीमो महास्वनः
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्। स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः
रक्षसां कदनं चक्रे दुरासादः सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्। अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ। नह्यादानं न संधानं धनुषो वा परिग्रहः
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः। न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्। चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः
अन्तरिक्षेऽभिसम्पन्ने न रूपाणि चकाशिरे। लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे। ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः
निरन्तरमिवाकाशं बभूव तमसा वृतम्। तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः। तमसा पिहितं सर्वमासीत् प्रतिभयं महत्
अस्तं गते सहस्रांशौ संवृते तमसा च वै। रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान्। न तदानीं ववौ वायुर्न च जज्वाल पावकः
स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः। सम्पेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्। शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्
ततोऽपरेण भल्लेन पीतेन निशितेन च। सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा
महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत्। स यन्तरि महातेजा हते मन्दोदरीसुतः
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्। तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान्
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत्। अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन्
ततः प्रमाथी रभसः शरभो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः। चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत