युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली। शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
ततो विस्फारयामास महद् धनुरवस्थितः। उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः। राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन्
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः। एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेषमस्य बलं हतम्
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः। सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः
संह्रादी विकटोऽरिघ्नस्तपनो मन्द एव च। प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्। बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु
एतावदेव शेषं वो जेतव्यमिति वानराः। हताः सर्वे समागम्य राक्षसा बलदर्पिताः
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम। घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति। तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान्। इति तेनातियशसा राक्षसेनाभिचोदिताः
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः। ततस्तु कपिशार्दूलाः क्ष्वेडन्तश्च पुनः पुनः। मुमुचुर्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः
जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः। तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान्
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः। परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। देवासुराणां क्रुद्धानां यथा भीमो महास्वनः
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्। स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः
रक्षसां कदनं चक्रे दुरासादः सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्। अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ। नह्यादानं न संधानं धनुषो वा परिग्रहः
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः। न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्